|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.227. अध्यायः 227
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति भगवत्स्वरूपनिरूपकमुनिसनत्कुमारसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`* युधिष्ठिर उवाच। 12-227-0x(6139)(74256)
केचिदाहुर्द्विधा लोके त्रिधा राजन्ननेकधा।
न प्रत्ययो न चान्यच्च दृश्यते ब्रह्म नैव तत्॥ 12-227-1(74257)
नानाविधानि शास्त्राणि उक्ताश्चैव पृथग्विधाः।
किमधिष्ठाय तिष्ठामि तन्मे ब्रूहि पितामह॥ 12-227-2(74258)
भीष्म उवाच। 12-227-3x(6140)
स्वेस्वे युक्ता महात्मानः शास्त्रेषु प्रभविष्णवः।
वर्तन्ते षण्डिता लोके को विद्वान्कश्च पण्डितः॥ 12-227-3(74259)
सर्वेषां तत्वमज्ञाय यथारुचि तथा भवेत्।
अस्मिन्नर्थे पुराभूतमितिहासं पुरातनम्॥ 12-227-4(74260)
महाविवादसंयुक्तमृषीणां भावितात्मनाम्।
हिमवत्पार्श्व आसीना ऋषयः संशितव्रताः॥ 12-227-5(74261)
षण्णां तानि सहस्राणि ऋषीणां गणमाहितम्।
तत्र केचिद्धुवं विश्वं सेश्वरं तु निरीश्वरम्॥ 12-227-6(74262)
प्राकृतं कारणं नास्ति सर्वं नैवमिदं जगत्।
अनेन चापरे विप्राः स्वभावं कर्म चापरे॥ 12-227-7(74263)
पौरुषं कर्म दैवं च यत्स्वभावादिरेव तम्।
नानाहेतुशतैर्युक्ता नानाशास्त्रप्रवर्तकाः॥ 12-227-8(74264)
स्वभावाद्ब्राह्मणा राजञ्जिगीपन्तः परस्परम्।
ततस्तु मूलमुद्भूतं वादिप्रत्यर्थिसंयुतम्॥ 12-227-9(74265)
पात्रदण्डविघातं च वल्कलाजिनवाससाम्।
एके मन्युसमापन्नास्ततः शान्ता द्विजोत्तमाः॥ 12-227-10(74266)
वसिष्ठमब्रुवन्सर्वे त्वं नो ब्रूहि सनातनम्।
नाहं जानामि विप्रेन्द्राःप्रत्युवाच स तान्प्रभुः॥ 12-227-11(74267)
ते सर्वे सहिता विप्रा नारदं ऋषिमनुवन्।
त्वं नो ब्रूहि महाभाग तत्वविच्च भवानसि॥ 12-227-12(74268)
नाहं द्विजा विजानामि क्व हि गच्छाम संगताः।
इति तानाह भगवांस्ततः प्राह च स द्विजान्॥ 12-227-13(74269)
को विद्वानिह लोकेऽस्मिन्नमोहोऽमृतमद्भुतम्।
तच्च ते शुश्रुवुर्वाक्यं ब्राह्मणा ह्यशरीरिणः॥ 12-227-14(74270)
सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति॥ 12-227-15(74271)
तमाह कश्चिद्विजवर्यसत्तमो
विभाण्डको मण्डितवेदराशिः।
कस्त्वं भवानर्थविभेदमध्ये
न दृश्यसे वाक्यमुदीरयंश्च॥ 12-227-16(74272)
अथाहेदं तं भगवान्सनन्तं
महामुने विद्धि मां पण्डितोऽसि
ऋषिं पुराणं सततैकरूपं
यमक्षयं वेदविदो वदन्ति॥ 12-227-17(74273)
पुनस्तमाहेदमसौ महात्मा
स्वरूपसंस्थं वद आह पार्थ।
त्वमेकोऽस्मदृषिपुङ्गवाद्य
नसत्स्वरूपमथवा पुनः किम्॥ 12-227-18(74274)
अथाह गम्भीरतरानुवादं
वाक्यं महात्मा ह्यशरीर आदिः।
न ते मुने श्रोत्रमुखेऽपि चास्यं
न पादहस्तौ प्रपदात्मके न॥ 12-227-19(74275)
ब्रुवन्मुनीन्सत्यमथो निरीक्ष्य
स्वमाह विद्वान्मनसा निगम्य।
ऋषे कथं वाक्यमिदं ब्रवीषि
न चास्य मन्ता न च विद्यते चेत्॥ 12-227-20(74276)
न शुश्रुवुस्ततस्तत्तु प्रतिवाक्यं द्विजोत्तमाः।
निरीक्षमाणा आकाशं प्रहसन्तस्ततस्ततः॥ 12-227-21(74277)
आश्चर्यमिति मत्वा ते ययुर्हैमं महागिरिम्।
सनत्कुमारसङ्काशं सगणा मुनिसत्तमाः॥ 12-227-22(74278)
तं पर्वतं समारुह्य ददृशुर्ध्यानमाश्रिताः।
कुमारं देवमर्हन्तं वेदपाराविवर्जितम्॥ 12-227-23(74279)
ततः संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम्।
सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजाः स्थिताः॥ 12-227-24(74280)
आगतान्भगवानाह ज्ञाननिर्धूतकल्मषः।
ज्ञातं मया मुनिगणा वाक्यं तदशरीरिणः।
कार्यमद्य यथाकामं पृच्छध्वं मुनिपुङ्गवाः॥ 12-227-25(74281)
तमब्रुवन्प्राञ्जलयो महामुनिं
द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम्।
कथं वयं ज्ञाननिधिं वरेण्यं
यक्ष्यामहे विश्वरूपं कुमार॥ 12-227-26(74282)
प्रसीद नो भगवञ्ज्ञानलेशं
मधुप्रयाताय सुखाय सन्तः।
यत्तत्पदं विश्वरूपं महामुने
तत्र ब्रूहि किं तत्र महानुभाव॥ 12-227-27(74283)
स तैर्वियुक्तो भगवान्महात्मा
यः सङ्गवान्सत्यवित्तच्छृणुष्व।
अनेक साहस्रकलेषु चैव
प्रसन्नधातुं च शुभाज्ञया सत्॥ 12-227-28(74284)
यथाह पूर्वं युष्मासु ह्यशरीरी द्विजोत्तमाः।
तथैव वाक्यं तत्सत्यमजानन्तश्च कीर्तितम्॥ 12-227-29(74285)
शृणुध्वं परमं कारणमस्ति कथमवगम्यते। अहन्यहनि पाकविशेषो दृश्यते तेन मिश्रं सर्वं मिश्रयते। यथा मण्डली दृशि सर्वेषामस्ति निदर्शनम्। अस्ति चक्षुष्मतामस्ति ज्ञाने स्वरूपं पश्यति। यथा दर्पणान्तं निदर्शनम्॥ 12-227-30(74286)
स एव सर्वं विद्वान्न बिभेति न गच्छति कुत्राहं कस्य नाहं केन केनेत्यवर्तमानो विजानाति॥ 12-227-31(74287)
स युगतो व्यापी। स पृथक्स्थितः। तदपरमार्थः॥ 12-227-32(74288)
यथा वायुरेकः सन्बहुधेरितः। आश्रयविशेषो वा यस्याश्रयं यथावद्द्विजे मृगे व्याघ्रे च मनुजे वेणुंसश्रयो भिद्यते वायुरथैकः। आत्मा तथाऽसौ परमात्माऽसावन्य इव भाति॥ 12-227-33(74289)
एवमात्मा स एव गच्छति सर्वमात्मा पश्यञ्शृणोति न च घ्राति न भाषते॥ 12-227-34(74290)
चक्रेऽस्य तं महात्मानं परितो दश रश्मयः।
विनिष्क्रम्य यथा सूर्यमनुगच्छन्ति तं प्रभुम्॥ 12-227-35(74291)
दिनेदिनेऽस्तमभ्येति पुनरुद्गच्छते दिशः।
तावुभौ न रवौ चास्तां तथा वित्त शरीरिणम्॥ 12-227-36(74292)
पतिते वित्त विप्रेन्द्रं भक्षणे चरणे परः।
ऊर्ध्वमेकस्तथाऽधस्तादेकस्तिष्ठति चापरः॥ 12-227-37(74293)
हिरण्यसदनं ज्ञेयं समेत्य परमं पदम्।
आत्मना ह्यात्मदीपं तमात्मनि ह्यात्मपूरुषम्॥ 12-227-38(74294)
संचितं संचितं पूर्वं भ्रमरो वर्तते भ्रमम्।
योऽभिमानीव जानाति न मुह्यति न हीयते॥ 12-227-39(74295)
न चक्षुषा पश्यति कश्चनैनं
हृदा मनीषा पश्यति रुपमस्य।
न शुक्लं न कृष्णं परमार्थभावं
गुहाशयं ज्ञानदेवीकरस्थम्॥ 12-227-40(74296)
ब्राह्मणस्य न सादृश्ये वर्तते सोऽपि किं पुनः।
इज्यते यस्तु मन्त्रेण यजमानो द्विजोत्तमः॥ 12-227-41(74297)
नैव धर्मी न चाधमीं द्वन्द्वातीतो विमत्सरः।
ज्ञानतृप्तः सुखं शेते ह्यमृतात्मा न संशयः॥ 12-227-42(74298)
एवमेव जगत्सृष्टिं कुरुते मायया प्रभुः।
न जानाति विमूढात्मा कारणं चात्मनो ह्यसौ॥ 12-227-43(74299)
ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान्स एव सः।
को विद्वान्परमात्मानमनन्तं लोकभावनम्।
यत्तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुङ्गवाः॥ 12-227-44(74300)
भीष्म उवाच। 12-227-45x(6141)
एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसंभवम्।
सनत्कुमारं संदृष्ट्वा जग्मुस्ते रुचिरं पुनः॥ 12-227-45(74301)
तस्मात्त्वमपि कौन्तेय ज्ञानयोगपरो भव।
ज्ञानमेवं महाराज सर्वदुःखविनाशनम्॥ 12-227-46(74302)
इदं महादुःखसमाकराणां
नृणां परित्राणविनिर्मितं पुरा।
पुराणपुंसा ऋषिणा महात्मना
महामुनीनां प्रवरेण तद्भुवम्॥' ॥ 12-227-47(74303)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः॥ 227॥
Mahabharata - Shanti Parva - Chapter Footnotes
* 227,228, एतदव्यायद्वयं थ. पुस्तक एव दृश्यते।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|